581 वेदान्तार्यः

मूलम्

नच शक्यं प्रतिज्ञातुं पक्षो नास्तीति केवलम्। एतत्प्रतिज्ञावाक्यार्थे पक्षोपगमसंभवात्॥

मूलम्

तस्य चानभ्युगमे न हि पक्षो निषिद्ध्यते। न हेतुनिरपेक्षात्मा पक्षो नामास्ति कश्चन॥

मूलम्

प्रसाधयितुष्टो हि हेतुना पक्ष उच्यते। हेतुमात्रनिषेधोऽपि न च सर्वत्र शक्यते॥

मूलम्

स्वप्रवृत्तिविरोधेन न कारकनिषेधनम्। ज्ञापकस्य निषेधस्तु व्यवहारविरोधकृत्॥

मूलम्

न दृष्टान्तनिषेधोऽपि सर्वलोकनिसम्मतेः। तत्पक्षेदेतुदृष्टान्तमर्यादा सुप्रतिष्ठिता॥

मूलम्

तथा न्यायनिरुक्त्याख्यवादेऽधिकरमात्मकः। न्यायो निरूप्यते चैवं नयोऽप्यार्हत उच्यते॥