मूलम्
तथाचावयवद्वैधवादिभिस्सौगतैरिह। यत्सत्तत्त् क्षणिकं सन्तश्चामी भावा इतीर्यते॥
मूलम्
तत्रोदाहरणं चोपनयश्चेति द्वयं मतम्। सूच्यन्ते नहि पाठ्यन्ते धीमन्तो वादिनः खलु॥
मूलम्
पक्षस्य वचनं नाम प्रतिज्ञा स च दुर्वचः। ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्म्यभिधीयते॥
टीका
प्र. त.[3-9]
मूलम्
व्याप्तिकाले भवेद्धर्मः साध्यसिद्धौ पुनर्द्वयम्। तस्मान्न्याये प्रतिज्ञायाः प्रयोगे नेति जानते॥
मूलम्
सपक्षः स्यात्समानोऽर्थः साध्यधर्मसदृक्त्वतः। सपक्षलक्षणं त्वेतद्दिङ्नागविबुधोदितम्॥
टीका
प्र. त.[3-13]
मूलम्
अनुमेयेऽथ तत्तुल्ये सद्भावः नास्तिताऽसति। इत्येवं धर्मकीर्तेश्च सपक्षविषयं वचः॥
मूलम्
एवं स्थितेऽपि कैश्चित्तु बौद्धैः क्षणिकवादिभिः। सपक्षलक्षणं साध्यधर्मवत्त्वमितीरितम्॥
मूलम्
ततश्च पक्ष एव स्यात्सपक्ष इति तन्मतम्। सत्त्वेन क्षणभङ्गानुमाने सर्वपक्षता॥
मूलम्
ततश्च पक्षवटनमनपेक्षितमुच्यते। तत्तु सर्वैरपि परैः विबुधैः प्रतिषिद्ध्यते॥