578 कुमारिलः

मूलम्

इति तार्किकसिद्धान्तं प्रायस्सर्वोऽनुमन्यते। अथ मीमांसकानां तु मते भेदः प्रदर्श्यते॥

मूलम्

प्रतिज्ञया निगमनं हेतुनोपनयस्तथा। गतार्थ इति कः कुर्यात् पञ्चावयवघोषणाम्॥

टीका

मानमेयोदयः.[ ]

मूलम्

तदेवं पोरुक्त्येन तथाऽध्याहारदोषतः। तर्कबौद्धमते हित्वा वयं त्र्यवयवे स्थिताः॥

मूलम्

तत्तु पञ्चतयं केचित् द्वयमन्ये वयं त्रयम्। उदाहरणपर्यन्तं यद्वोद्राहरणादिकम्॥