मूलम्
स्वाभिप्रायानुसारेण परः प्रच्याय्यते परैः। तत्र स्वप्रतिपत्तिर्हि क्रमेणैवं प्रजायते॥
मूलम्
प्रथमं पर्वतोऽध्यक्षः कथ्यते स प्रतिज्ञया। ततो लिङ्गस्योपलब्ध्या हेतुना तन्निवेद्यते॥
मूलम्
ततो व्याप्तिस्मृतिः साऽपि दृष्टान्तेनाभिधीयते। ततः परामर्शसिद्धिः स चोपनयवेदितः॥
मूलम्
ततश्चानुमितिस्सैषा प्रोक्ता निगमनादिह। एवंच पञ्चावयवाः जयन्तेन निगुम्भिताः॥
टीका
न्या. म.[584]