मूलम्
इति प्रशस्तपादोक्तमथ पक्षिलभाषितम्। प्रतिज्ञा च तथा हेतुरुदाहरणमित्यपि॥
टीका
न्या. भा.[1-1-32]
मूलम्
तथैवोपनयश्चापि भवेन्निगमनं ततः। जिज्ञासा संशयश्चैव शक्यप्राप्तिः प्रयोजनम्॥
मूलम्
व्युदासस्संशयस्येति दशान्येऽवयवान्विदुः। प्रमाणसामर्थ्यबुद्धिः शक्यप्राप्तिरितीर्यते॥
मूलम्
परे तु पञ्चावयान् प्रतिज्ञादीन् प्रचक्षते। न्यायः परप्रत्ययार्थः वाच्यं यावदपेक्षितम्॥
मूलम्
पञ्चावयवसंयुक्तमित्याहुरिह केचन। अत्रचावयवव्यूहे प्रमाणानि परस्परम्॥
मूलम्
संभूयसंदिग्धमर्थं साधयन्तीति भाषितम्। शब्दः प्रतिज्ञाऽनुमानं हेतुः प्रत्यक्षमेव तत्॥
मूलम्
उदाहरणमत्रोपमानं चोपनयो मतः। सर्वेषामुपसंहारो भवेन्निगमनं पुनः॥