मूलम्
यत्सिषाधयिषन्त्यत्र तार्किकाः परमेश्वरम्। तत्रानुमाने यत्किंचित्प्रसङ्गादिह कथ्यते॥
मूलम्
प्राधान्येनानुमानं तु त्रिविधं हीशसाधनम्। कार्यालिङ्गकमाद्यं स्यात् द्वितीयं वेदलिङ्गकम्॥
मूलम्
अदृष्टलिङ्गकं चान्यत् विस्तरः कुसुमाञ्जलौ। वेदलिङ्गकमेवोपदेशलिङ्गकमुच्यते॥
मूलम्
विवादाध्यासितं ह्येतत्कार्यत्वात्स्यात्सकर्तृकम्। कदाचित्कत्वतः कार्यं सर्ववित्कर्तृपूर्वकम्॥
मूलम्
अन्वयव्यतिरेक्याद्यं द्वितीयं व्यतिरेकवत्। वेदवाक्यं कर्तृपूर्वं वाक्यत्वाद्भारतादिवत्॥
मूलम्
वेदस्सर्वज्ञप्रणीतः वेदत्वात् व्यतिरेक्यदः। अदृष्टं सकलं साक्षात्कर्तृधीमदधिष्ठितम्॥
मूलम्
अचेतनत्वे च सति कार्यकारित्वतस्त्विति। अत्र दोषादोषचिन्ता प्रवृत्ता महती कथा॥