573 नैयायिकमतम्

मूलम्

सामान्यव्याप्तिसहितपक्षदर्मत्वधीबलात्। सामान्ये पक्षनिष्ठत्वं विशेषः न्यायविन्मतः॥

मूलम्

अनुमेयं च मत्त्वर्थः नान्यशब्दार्थ इत्यतः। संबन्धासाध्यतापक्षीक्षेपास्सर्वे निवारिताः॥

टीका

न्या. म.[123]

मूलम्

तस्माल्लोकायिताशङ्काः सर्वा अप्याकुलीकृताः। इति नैयायिकैकान्तः विश्रुतस्सर्ववादिनाम्॥

मूलम्

स एव प्रायशस्सर्वैः स्वीकृतो नव्यसूरिभिः। निरूढतर्कसंस्काराः सुधियः प्रथमं यतः॥