मूलम्
गुरुभिस्त्वन्यथा तत्र निर्णीतं तत्प्रदर्श्यते। व्याप्तिग्रहणवेलायां धूमवत्यखिले स्थले॥
मूलम्
वह्निमत्ताऽस्तीतिबुद्धेः प्रकृते पर्वते पुनः। धूमवत्त्वं ग्रहीतव्यं नच तेजस्विता पुनः॥
मूलम्
सा हि पूर्वगृहीतैव संस्कारात्स्मर्यते तदा। प्रत्युत्पन्ननिदानोत्था संगतिस्त्वनुमा ततः॥
टीका
न्या. म.[118]