मूलम्
न्यायवार्तिकतात्पर्यटीकायां कारिका इमाः। दिङ्नागकथिताः वाचस्पतिमिश्रैरुदाहृताः॥
टीका
न्या. वा.[120]
मूलम्
केचिद्धर्मान्तरं मेयं लिङ्गस्याव्यभिचारतः। संबन्धं केचिदिच्छन्ति सिद्धत्वाद्धर्मधर्मिणोः॥
मूलम्
लिङ्गं धर्मे प्रसिद्धं चेत् किमन्यत्तेन मीयते। अथ धर्मिणि तस्यैव किमर्थं नानुमेयता॥
मूलम्
संबन्धोऽपि द्वयं नास्ति षष्ठी श्रूयेत तद्वति। अवाच्योऽनुगृदीतत्वात् न चासौ लिङ्गसंगतः॥
मूलम्
लिङ्गस्याव्यभिचारस्तु धर्मेणान्यत्र दृश्यते। तत्र प्रसिद्धं तद्युक्तं धर्मिणं गामयेदिति॥