मूलम्
महाविद्या नाम कश्चिद्धेतुः वादीन्द्रसम्मतः॥
टीका
स. सि.[4-49]
मूलम्
स केवलान्वयी यावत्सपक्षेषु स्थितो मतः। महाविद्यासूत्रकर्ता यः कुलार्काभिधो बुधः॥
मूलम्
महाविद्याप्रवीणश्च शिवादित्याभिधो बुधः। तस्यास्ति किंचिद्व्याख्यानं महाविद्याविडम्बनम्॥
मूलम्
तस्य प्रणेता वादीन्द्रः यस्स्याच्छङ्करकिङ्करः। विवादाध्यासितं स्वस्वेतरवृत्तित्ववर्जितः॥
मूलम्
यस्सकर्तृकनिष्ठस्स्यात्तस्याधिकरणं भवेत्। प्रमेयत्वात्कलशवत् इत्यादिः केवलान्वयी॥
मूलम्
एतेन क्षित्यङ्कुरादेस्स्यात्सकर्तृकतेति च। तर्कानुकूल्यतस्तत्र बलाबलविनिर्णयः॥
मूलम्
इति प्राचीनसिद्धान्ताः प्रायस्संगृह्य दर्शिताः। वेदान्तसूरिभिर्न्यायपरिशुद्धाविति स्थितम्॥