मूलम्
केवलान्वयिदेतुश्च सम्मतो न्यायवेदिभिः॥
मूलम्
अत एवाविनाभावः दुर्ग्रहः तत्र कथ्यते। धर्मादयः प्रमेयत्वात् प्रत्यक्षाः कस्यचित्त्विति॥
मूलम्
उदाहरन्ति न्यायज्ञाः केवलान्वयिनं क्वचित्। इदं वाच्यं ज्ञेयतयेत्यपि क्वापि प्रयुच्यते॥
मूलम्
तद्दूषयति वादीन्द्रः समाधिस्तत्र दि श्रुतः। वाच्यत्वं ज्ञायते चैवं ज्ञेयत्वमभिधीयते॥
मूलम्
विरोधो व्यक्तिभेदेन यथावदुपशाम्यति। वाच्यत्वेऽपि च वाच्यत्वं ज्ञेयत्वे ज्ञेयता तथा॥
मूलम्
व्यक्तिभेदाद्विरोधस्य शान्तिः बीजाङ्कुरादिवत्। नात्माश्रयप्रसक्तिर्वा नान्योन्याश्रयताऽपि वा॥
मूलम्
प्रमेयत्वाभिधेयत्वप्रसङ्गे इति निर्णयः। तथापि विफलं त्वेतदिति केचन जानते॥
मूलम्
इदं प्रयोजनं ज्ञेयं तत्त्वमुक्ताकलापतः। यतो वाचो निवर्तन्ते इति श्रुत्येकदेशिनाम्॥
टीका
तत्त्वमुक्ता.[4-51]
मूलम्
सद्विवर्तविदां मार्गनिरोधः प्रथमं फलम्। दुस्साधं क्वचिदप्येवमवाच्यत्वादि चेत्तदा॥
मूलम्
किं पुनस्सर्ववचसां प्रतिष्ठा यत्र तत्रतु।