मूलम्
अन्वयव्यतिरेकी च तथा स्यात्केवलान्वयी॥
मूलम्
केवलव्यतिरेकी च हेतुः व्याप्तिप्रभेदतः। अतस्त्रिधाऽनुमानं स्यादिति न्यायविदां मतम्॥
मूलम्
कौमारिलाद्याः नेच्छन्ति देतुं तं व्यतिरेकिणम्। तथा वादीन्द्रादयश्च नेच्छन्त्यन्वयिनं पुनः॥
मूलम्
अन्वयव्यतिरेक्येकहेतुमात्रविदस्ति चेत्। तृतीयश्शोभते पन्थाः स च द्वापि दूषयेत्॥
मूलम्
नैयायिकास्तु तान्सर्वान् दूषयेयुः महाधियः। अत्रायमभिसंधिस्स्यात् केवलव्यतिरेकिणः॥
मूलम्
निरासे वेदविदुषां न्यायशुद्ध्यादिसूचितः। हैतुकास्साधयन्त्यत्र केवलव्यतिरेकिणा॥
मूलम्
यद्यदिच्छन्ति तत्सर्वं स चादौ भज्यते यदि। त्र्यंशोऽवरोपितो भारो भवेद्धैतुकभञ्जने॥
टीका
न्यायपरि.[79]
मूलम्
प्रमाणवादारम्भे च तद्विस्तर उदीरितः। साध्यप्रसिद्धिः वैषम्यं व्यर्थतोपनयस्य च॥
मूलम्
अन्वयेनैव सिद्धिश्च व्यतिरेकिणि दूषणम्। तत्स्थाने ह्यभिषिञ्चन्ति पञ्चमीं प्रमितिं तु ते॥
मूलम्
व्यतिरेकव्याप्तिबुद्ध्या साऽन्यथाऽकारि तार्किकैः। यच्चानुकूलतर्के सत्यप्रसिद्धविशेषणः॥
मूलम्
न दोष इति भाषन्ते तार्किकाः तदसंगतम्। तर्को हि नाप्रसिद्धार्थं क्वचित्साधयितुं क्षमः॥
मूलम्
अतोऽप्रसिद्धतादोषः तर्के सत्यपि दुस्त्यजः। केवलव्यतिरेकी च स क्वचिद्भावगोचरः॥
टीका
स. सि.[4-53]
मूलम्
अभावगोचरश्चेति द्विविधो विबुधैर्मतः। गौरिति व्यवहर्तव्य इति स्याद्भावगोचरः॥
मूलम्
इतरेभ्यां भिद्यत इत्यभावाविषयो मतः। व्यावृत्तिर्व्यवहारश्च लक्षणस्य प्रयोजनम्॥
मूलम्
इति व्यावहृतिः प्राचां विदुषां तन्निबन्धना॥