मूलम्
अथ साधर्म्यवैधर्म्यविचारे किंचिदुच्ते। शाक्या वैधर्म्यवचनं पाक्षिकं नैव सेहिरे॥
टीका
न्या. र.[387]
मूलम्
वैदर्म्यमेव वक्तव्यं सर्वदेत्यप्यवादिषुः। धूमत्वं नाम सामान्यं न वस्तु परमार्थतः॥
मूलम्
अस्तु वाऽथापि साधर्म्यं न वक्तुमिह शक्यते। अशेषदेशकालेषु दर्ग्रहः शिखिनोऽन्वयः॥
मूलम्
विपक्षव्यतिरेकस्तु सुज्ञानः स्याददर्शनम्। सुकरं चैकदेशस्थेनैवानग्निष्वदर्शनम्॥
मूलम्
तस्माद्धूमो ह्यनग्निभ्यो रिच्यमानोऽवबोधकः। अनग्निव्यावृत्तिमुखादग्नेरिह विनिश्चयः॥
मूलम्
अतद्वयावृत्तिविषयौ लिङ्गशब्दावतो मतौ। अत्र प्रत्युक्तिरेषा स्यादपोहश्लोकवार्तिकम्॥
टीका
श्लोक.[585]
मूलम्
न चादर्शनमात्रेण ताभ्यां प्रत्यायनं भवेत्। सर्वत्रेव ह्यदृष्टत्वात्प्रत्याय्यं नावशिष्यते॥
मूलम्
अस्य चामभिप्रायस्संग्रहात्प्रतिपाद्यते। विपक्षादर्शनं त्वत्रादर्शवस्वनशब्दितम्॥
मूलम्
प्रत्यायनं पुनरतद्व्यावृत्तिविषयं मतम्। तच्छब्दार्थी लिङ्गशब्दौ तन्नापोहमतिः क्वचित्॥
मूलम्
अन्वयस्य सपक्षेऽपि विपक्षवददर्शनात्। द्वाभ्यां च व्यावृत्त एषः धूमास्संशायको भवेत्॥
मूलम्
तथाचापोहरूपार्थो लोके नैव प्रसिद्ध्यचि। अतोऽन्वयोऽप्यङ्गमिचि स्वीकर्तुमुचितं बुधैः॥
मूलम्
अन्वयस्य क्वचिद्दृष्टौ ह्यतद्व्यवृत्तिनिश्चयः। यत्तु सर्वत्रान्वयोऽयं दुर्ग्रहस्स्यादितीरितम्॥
मूलम्
तत्तुल्यं व्यतिरेकेऽपि नैषोऽदर्शनमात्रतः। किन्तु दृश्यादर्शनतः,एकदेशस्थितस्य तु॥
मूलम्
न कदाचिद्धि सर्वत्र दृश्यादर्शनसंभवः। तेन सर्वत्रान्वयेऽथ व्यतिरेके च सर्वतः॥
मूलम्
अविज्ञातेऽपि बहुशः साहित्यावगमात्पुनः। व्यभिचारादर्शनेन सनाथादनुमोदयः॥
मूलम्
सर्वैरभ्युपगन्तव्यः एवं शब्देऽपि दृश्यताम्। तद्वस्तुविषयौ लिङ्गशब्दौ नापोहगोचरौ॥
मूलम्
अपोहवार्तिकश्लोकभाव एवं शब्देऽपि दृश्यताम्।