565 अन्तर्व्याप्त्यादिविशेषः

मूलम्

अन्तर्व्याप्तिः बहिर्व्याप्तिरिति व्याप्तिर्द्विधा मता। सिषाधयिषितव्यक्तिव्याप्तिरन्तरितीर्यते॥

टीका

प्र. त.[3-38]

मूलम्

बहिः व्यक्त्यन्तरव्याप्तिरिति ह्यार्हतनिर्णयः। पक्षे व्याप्तिर्भवेदान्तः त्वन्यत्र बहिरिष्यते॥

मूलम्

इति प्रमाणतत्त्वेऽपि विस्तृतं देवसूरिणा। विशेषव्याप्तिरन्तः स्यात् बहिस्समान्यतो भवेत्॥

टीका

न्या. म.[111]

मूलम्

वृथा विभाग इत्याहुः विबुधा न्यायवेदिनः। व्यतिरेकव्याप्तिबुद्ध्याऽप्यन्वयव्याप्तिरेव हि॥

मूलम्

अवधार्येत सैव स्यादनुमाङ्गमितीतरे। इत्थं व्याप्तिविकल्पोऽयं संक्षेपादिह सूचितः॥