564 इतरेषां व्याप्तिः

मूलम्

निरुपाधिकसंबन्धो व्याप्तिरित्यपरे विदुः । उपाधिस्साधनाव्याप्तिसाध्यव्याप्त्यादिगर्भितः ॥

मूलम्

तत्रोपाधिव्याप्तिवस्तुनिर्णयेऽन्योन्यसंश्रयः । तत्र चेत्थं समाधानं परिशुद्धावुदीरितम् ॥

मूलम्

यो यावत्साध्यदेशस्थः न यावद्धेतुदेशगः । स उपैधिरिति ज्ञानन्न दोष इति निश्चितम्॥