मूलम्
मीमांसकानां सिद्धान्ते व्याप्तितत्त्वमिदं मतम्। व्याप्तिर्हि नियमः कश्चित् संबन्धोऽस्ति विलक्षणः॥
टीका
न्या. मा.[57]
मूलम्
संबन्धो व्याप्तिरिष्टाऽत्र लिङ्गधर्मस्य लिङ्गिना। व्यापप्यस्य गमकत्वं च व्यापकं गम्यमिष्यते॥
टीका
श्लोक.[348]
मूलम्
यो यस्य देशकालाभ्यां समो न्यूनोऽपिवा भवेतु। स व्याप्यः व्याकस्तस्य समो वाऽभ्यधिकोऽपि वा॥
मूलम्
येन केनापि संबन्धेनैष क्वपि नियम्यते। स एव लिङ्गधर्मस्य लिङ्गता समुदाहृदा॥
मूलम्
तथा च नियमाख्ये यस्संबन्धो व्याप्तिलक्षणः। तदभावादागमोऽपि प्रमाणं स्याद्विलक्षणम्॥
मूलम्
व्याप्तिस्सपक्षदृष्टैवानुमानाङ्गतया मता। सर्वदेशव्याप्तिरत्र दर्ग्रहैव विपश्चिताम्॥
मूलम्
भूयोदर्शनगम्या च व्याप्तिस्सामान्यधर्मयोः। क्वचिच्च कृत्तिकारोहिन्याद्ययोर्हि विशेषयोः॥
मूलम्
कैश्चित् सावदेशकालव्याप्तिधीरङ्गमिष्यते। मानं मृगयमाणश्च प्रत्यक्षं तत्सकृद्विदुः॥
मूलम्
बालोऽपि दीपकलिकास्फर्शाद्वेति तथा सकृत्। योगिप्रत्यक्षतुल्यं तन्मानसं केचिदब्रवन्॥
टीका
न्या. मा.[122]
मूलम्
भूयोदर्शनसंजातसंस्कारसचिवं पुनः। प्रत्यक्षं चरमं व्याप्तौ मानं केचित्प्रचक्षते॥
मूलम्
यत्र यत्र भवेद्धूमः तत्रतत्रान्गिरित्यसौ। यस्स्यादवगमः स्सोऽयं परोक्षो ह्यानुमानिकः॥
मूलम्
इति कौमारिलाः प्राहुः नाङ्गं यावन्मतिस्ततः। अन्वयो व्यतिरेकश्च यथासंभवमिष्यते॥
मूलम्
नियम्यत्वनियन्तृत्वे भावयोर्यादृशी मते। ते एव विपरीते तु विज्ञेये तदभावयोः॥
मूलम्
गमकस्यैकदेशस्य व्याप्तिः गम्येन भाषितुम्। साध्यसाधर्म्यवैधर्म्यदृष्टान्तः प्रतिपाद्यते॥
मूलम्
तत्र देत्वर्थमुद्दिश्य साध्योपादनमिष्यते। उद्देश्यो व्याप्यते धर्मः व्यापकश्चेत्तरो मतः॥
टीका
श्लोक.[381]
मूलम्
यद्वृत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम् । तद्वृत्तमेवकारश्च स्यादुपादेयलक्षणम् ॥
मूलम्
उद्देश्यतावच्छेदकव्यापकत्वं हि भासते । विधेयस्येत्येतदेव विवृतं नव्यतार्किकैः ॥
मूलम्
साध्येन साधनस्थाय व्याप्तिमन्ये प्रचक्षते । व्याप्तिरावृतिरेषा स्यादथवाऽधिकदेशता ॥
टीका
न्या. मा.[56]
मूलम्
भूमौ प्रतिष्ठितो वह्निः धूमाग्रं व्योम्न्यवस्थितम् । व्याप्नोति कथमित्यत्र प्रत्यवस्थीयते परैः ॥