562 नैयायिकव्याप्तिः

मूलम्

नैयायिकैस्साहचर्यनियमो व्याप्तिरिष्यते। तच्च व्यापकसामानाधिकरण्यमितीर्यते॥

मूलम्

साहचर्यं चान्वयतः तथैव व्यतिरेकतः। द्वेधाऽपि यम्मतं चेन लिङ्गं त्रिविधमुच्यते॥

टीका

तत्त्वचिन्तामणिः.[ ]

मूलम्

साहचर्येऽपि घटकः संबन्धः बहुधा मतः। नौलक्यवच्चतर्धैव सांख्यवन्नपि सप्तधा॥

मूलम्

इयानेव विशेषोऽत्र भावयोर्दृषी ययोः। व्याप्यव्यापकता सैव व्यात्यस्ता तदभावयोः॥

मूलम्

अग्नेर्भावस्य भूयस्त्वात्तदभावोऽस्पतां ब्रजेत्। धूमभावस्य चाल्पत्वात् तदभावो महत्तरः॥

मूलम्

व्यभिचारज्ञानशून्यसहचारस्य दर्शनम्। हेतुर्व्याप्तिग्रहे तर्कः क्वचिच्छङ्कानिवर्तकः॥

मूलम्

यावतीनां साध्यहेतुव्यक्तीनां स्यादलौकिकम्। सामान्यलक्षणासत्तया सहचारस्य दर्शनम्॥

टीका

न्या. म.[122]