मूलम्
अथ व्याप्तिपदार्थीयविकल्पस्यापि संग्रहः। तत्प्रमाणविकल्पोऽपि संग्रहादिह सूच्यते॥
मूलम्
अविनाभावनियमः व्याप्तिस्सौगतसम्मता। सा च साध्यवदन्यस्मिन्नसंबन्धो निरुच्यते॥
टीका
न्या. र.[388]
मूलम्
व्यतिरेकस्सुग्रहस्स्याद्दुर्ग्रहो यावदन्वयः। अतएवाविनाभाव इत्युक्तिः व्यतिरेकतः॥
मूलम्
व्यतिरेकव्याप्तिरेवानुमानाङ्गतया मता। वैधर्म्यतश्च दृष्टान्तः विपक्षाद्विनिवृत्तये॥
मूलम्
कार्यकारणभावो वा स्वभावो वाऽत्र गृह्यते। व्यप्तिग्रहोपायतया तैर्बौद्धैरिति निर्णयः॥