मूलम्
स्वार्थं परार्थमिति च द्विविधं हि विभज्यते। नैयायिकैः तत्र दोषमिममाहुः परे बुधाः॥
मूलम्
सर्वाणि चानुमानानि स्वानुसंधानशक्तितः। प्रवृत्तानि स्वव्यवहृतिसाधनानीति हि स्थितम्॥
मूलम्
चोद्विभज्य च वक्तव्यमेवं वक्तुं हि साम्प्रतम्। स्वयंसिद्धं चान्यवाक्यपूर्वकं चेति भेदतः॥
मूलम्
स्वार्थं परार्थमिति हि प्रत्यक्षादावपीष्यताम्। दोषज्ञाः सूक्षममतयः श्रोतारो नहि केवलम्॥
मूलम्
नचापूर्वास्तीर्थकराः न भवन्तीति निर्णयः। तथात्वे प्रथमैकान्तपरिशेषः प्रसज्यते॥