559 वेदान्तिनिर्णयः

मूलम्

अथौपनिषदानां तु व्याससूत्रावलम्बिनाम् । अभिप्रायस्त्वसौ न्यायपरिशुद्धौ प्रकाशितः ॥

टीका

न्यायपरि.[80]

मूलम्

विशेषतोदृष्टमेतद्विशेषानुगमे सति। भवेत्सामान्यतोदृष्टं सामान्यानुगमे सति॥

मूलम्

अस्मदध्यक्षयोग्यार्थानुमानं स्याद्विशेषतः। तदयोग्यार्थानुमानं आहुस्सामान्यतः बुधाः॥

मूलम्

तेनेन्दुपरभागदिसिद्धिः शैलापरान्तवत्। व्यक्तेरैक्येऽपिवा देशकालावस्थाभिदावशात्॥

मूलम्

शृङ्गाच्छैसः स्वरात्पुत्रः रोहिणी कृत्तिकोदयात्। विशेषतोदृष्टमेतत् परं धूमादिकं भवेत्॥

मूलम्

एतेऽतीन्द्रियवस्तूनां शास्त्रतस्सिद्धिवादिनः। बादरायणसिद्धान्तशास्त्रयोनिनये स्थितः॥

मूलम्

भवन्तं च भविष्यन्तं भूतं व्यवहितं तथा। सूक्ष्मं च विप्रकृष्टं चेत्येवंजातीयकं तथा॥

टीका

शा. भा.[1-1-2]

मूलम्

वेदो बोधयितुं शक्तः नान्यदित्यस्ति शाबरम्। तदयुक्तं ततश्चानुमानं त्रैकाल्यगोचरम्॥

टीका

न्या. सू.[2-1-8]

मूलम्

सर्वार्थविषयं चेति न्यायवित्प्रवरोदितम्। विवादोऽयमनादिस्स्यात् उक्तियुक्तयोः परस्परम्॥