मूलम्
नैयायिकानां व्याख्यानमित्थमत्रावधार्यते। वह्न्यादिकं विशेषेण दृष्टमित्यभिधीयते॥
मूलम्
रूपाद्रसानुमानं तु दृष्टं सामान्यतो मतम्। शृङ्गाद्द्विशफवत्त्वं वा सामान्येनावधार्यते॥
मूलम्
परिशेषानुमानं वा सामान्यत इतीर्यते। अथवाऽतीन्द्रियं वस्तु सामान्यविषयं मतम्॥
मूलम्
अतीन्द्रियानुमानस्य परिशेषानुमानतः। विशेषः कथितः सूक्ष्मः जयन्तेन स उच्यते॥
मूलम्
इच्छादिकं शरीरादिविलक्षणसमाश्रयम्। शरीरादिषु बाधायां कार्यत्वमिति तत्क्रमः॥
टीका
न्या. म.[133]
मूलम्
परिशेषानुमानस्य प्रवृत्तिक्रम एष हि। इच्छादेर्नाश्रयो देहः प्रसक्तोऽन्योऽपि नाश्रयः॥
मूलम्
इत्येवं प्रतिषेधेन शिष्यमाणस्तदाश्रयः। इत्थं विशेषमालक्ष्य द्विधा व्वाख्यत्स पक्षिलः॥