मूलम्
सामान्यतोदृष्टमेव द्वितीयमिह कथ्यते। तदेव परिशेषानुमानं व्याख्यातृसम्मतम्॥
मूलम्
क्रियादिविषयादृष्टस्वलक्षणमितीतरे। दृष्टस्वलक्षणं सर्वमिति केचित् विदुः परे॥
मूलम्
तेन सामान्यतोदृष्टं दृष्टं चापि विशेषतः। इति द्विधाऽनुमानं स्यादितरेषां विपश्चिताम्॥
मूलम्
सास्त्रया गोर्हि विज्ञानं दृष्टमित्याभिधीयते। अत्यन्तजातिभेदेऽपिचानुमानं तदिष्यते॥
मूलम्
अत्यन्तजातिभेदे तु दृष्टं सामान्यते मतम्। यथा प्रवृत्तिस्सफला वणिक्कर्षकभूभुजाम्॥
मूलम्
तथा वर्णाश्रमवतां दृष्टार्थानभिलाषिणाम्। इति प्रशस्तपादेन द्वयमेतदुदाहृतम्॥
मूलम्
दृष्टं वह्न्यादिकं तत्रादृष्टं कर्मादिकं त्विति। अनुमानप्रमेयं च द्विविधं गुरवो विदुः॥
मूलम्
विशेषविषयं त्वाद्यं परं सामान्यगोचरम्। नातीन्द्रियेऽनुमानं स्यादिति कौमारिलं मतम्॥
टीका
श्लोक.[392]
मूलम्
प्रत्यक्षदृष्टसंबन्धं ययोरेव विशेषयोः। गोमयेन्धनतज्जन्यविशेषादिमतिः कृता॥
मूलम्
तद्देशश्थेन धूमेन तत्र कालान्तरे पुनः। यदाऽग्निर्बुध्यते पुंसा विशेषविषयं तु तत्॥
मूलम्
संदिह्यमानसद्भाववस्तुबोधात्प्रमाणता। विशेषदृष्टमेतच्च लिखितं विन्ध्यवासिना॥
मूलम्
प्राप्तिसामान्येन यत्र गतिलामान्यधीर्भवेत्। आदित्यादौ तत्र दृष्टं सामान्यमिति वार्तिकम्॥
मूलम्
अर्थापत्त्यैव शक्त्यादेस्सिद्धिमेते विदुर्बुधाः। अनुमानेन शक्तयादेस्सिद्धिं प्राभाकरा विदुः॥
मूलम्
तेनेश्वराद्यसिद्धौ तु वेदस्योपौरुषेयता। निरबाधेति हृदयं कौमारिलमिति स्थितम्॥