555 औपवर्षविभागः

मूलम्

तथैव शाबरे भाष्ये त्वौपवर्षं द्विधेरितम् । यथा प्रत्यक्षतोदृष्टसंबन्धं प्रथमं मतम् ॥

मूलम्

परं सामान्यतोदृष्टसंबन्धमिति कीर्तितम् । विशेषतोदृष्टमेव प्रत्यक्षत इतीर्यते॥

मूलम्

सामान्यतोदृष्टमेव स्याद्वैभाषिकसम्मतम्। परोक्षमानं सामान्यगोचरन्विति तन्मतम्॥

मूलम्

वैशेषिकादयस्तत्र त्वित्थं व्यवहारन्ति हि। दृष्टं चादृष्टमिति च शब्दमात्रप्रभेदतः॥

टीका

वै. सू.[3-2-7]