मूलम् इति वाचस्पतिः प्राह नैयायिकमते पुनः। पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्त्रिधा ॥ टीका न्या. सू.[1-1-5] मूलम् इत्यक्षपादसूत्रोक्तं कार्यं कारणमेव च । अकार्यकारणं चेति तस्यार्थः कैश्चिदिष्यते ॥