मूलम्
लिङ्गं तु त्रिविधं कार्यस्वभावानुपलब्धयः । इति वैभाषिकाः प्राहुरिति सर्वत्र विश्रुतम् ॥
मूलम्
पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः । अविनाभावनियमात् हेत्वाभासास्ततोऽपरे ॥
टीका
न्या. र.[377]
मूलम्
हेतुबिन्दुवचस्त्वेतत्कीर्तितं धर्मकीर्तिना । स एव भिक्षुः बहुधा कुमारिलहृदि स्थितः ॥
मूलम्
यद्यप्यनुपलब्धिस्सा स्वभावान्तर्निपातिनी । तथापि प्रतिषेधस्य साधनात्पृथगुच्यते ॥
मूलम्
सा चैकादशधेत्येके परे षोडशधेति च । प्राहुर्विभागवैचित्र्यात् पृथक्कृतिफलं न्विदम् ॥
मूलम्
तथा प्रसङ्गानुमानं तद्विपर्यय इत्यपि । विभागोऽस्ति तदर्थं तु वक्तित्थं किरणावली ॥
टीका
किर.[143]
मूलम्
तत्स्वभावानुमानं यत् प्रसङ्ग इति कथ्यते । व्यापकानुपलब्धिर्या स विपर्यय इष्यते ॥