मूलम्
यन्न्यायपरिशुद्ध्युक्तमन्यथारूपपञ्चकम् । तदप्यत्रावधातव्यं प्रक्रियामात्रभेदतः ॥
टीका
न्यायपरि.[150]
मूलम्
असिद्धार्थत्वं च साध्यज्ञापनाय प्रवृत्तता । विशिष्यानास्कन्दितता व्याप्तिग्राहकमानतः ॥
मूलम्
संदिह्यमानविषयवत्ता व्यक्तिविभिन्नता । पक्षस्थहेतुव्यक्तौ स्यादित्येतद्रूपपञ्चकम् ॥
मूलम्
दृष्टान्तव्यक्तिवृत्तौ तु हेतौ तेषां विपर्ययः । सिद्धार्थत्वादिकं रूपपञ्चकं तत्र शाश्वतम् ॥
मूलम्
ततश्च दश रूपाणि सद्धेतोरसतः पुनः । न्यूनानीति विदुर्धीराः व्यासाभिरुचयस्तु ते ॥
टीका
न्यायबिन्दुः.[ ]