मूलम्
एकैकापायतस्तेषां हेत्वाभासास्तु पञ्चधा । अत्रार्हतस्याक्षेपोऽयं देवसूरेर्निशम्यताम् ॥
टीका
प्र. त.[13]
मूलम्
अज्ञातस्य हि लिङ्गस्य हेतुना न च कस्यचित् । प्रसज्यते तार्किकाणां ज्ञातत्वमधिकं ततः ॥
मूलम्
हेतोश्च ज्ञापकत्वेन ज्ञातत्वं यदि लभ्यते । विपक्षव्यावृत्तिमात्रादबाधोप्यत्र लभ्यते ॥
मूलम्
अन्यथानुपपत्त्येकरूपस्यैतत्प्रपञ्चनम् । षड्रूपता तथा पञ्चरूपता वा त्रिरूपता ॥