मूलम् अथ त्रिलक्षणविदामेतद्वात्सीभुवां मतम् ॥ टीका न्या. र.[402] मूलम् पक्षे सत्त्वं सपक्षे च सत्त्वं चैव विपक्षतः । व्यावृत्तत्वमिति त्रीणि लिङ्गरूपाणि ते विदुः ॥ मूलम् हेत्वाभासा अपि ततस्त्रय एव हि तन्मताः । आभासोपि हि सर्वत्र स्वस्वरूपविपर्ययः ॥