मूलम्
इत्यार्हतानां सिद्धान्तः ह्यथ वेदान्तिभिःपरैः । व्याप्तिश्च पक्षधर्मत्वं उभयं लिङ्गलक्षणम् ॥
टीका
न्यायपरि.[ ]
मूलम्
व्याप्त्यभावे पुनर्व्याप्यत्वासिद्धिरिति निश्चिता । पक्षधर्मत्वस्य हानौ स्वरूपासिद्धिरिष्यते ॥
मूलम्
अव्याप्तापक्षधर्मौ द्वौ हेत्वाभासौ समासतः । तयोरेव प्रपञ्चेन स्यादसिद्ध्यादिकल्पना ॥
मूलम्
इति न्यायपरिशुद्धिकारसिद्धान्तसंग्रहः । व्याप्तिस्तथा समुचितदेशवृत्तित्वमेव च ॥
मूलम्
द्वयं प्रमाणपद्धत्यां लिङ्गरूपं निरूपितम् ॥