545 एकलक्षणपक्षः

मूलम्

लिङ्गं व्याप्यं च हेतुश्चोपपत्तिर्युक्तिरेवच। साधनं स्थापना चेति पर्याय इति निर्णयः॥

टीका

प्र. त.[3-11]

मूलम्

अन्यथाऽनुपपत्त्येकलक्षणं लिङ्गमिष्यते। पित्रोश्च ब्रह्मणत्वेन पुत्रब्रह्मणताऽनुमा॥

टीका

प्र. त.[2-1]

मूलम्

सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते । प्रयोगपरिपाटी तु प्रतिपाद्यानुसारतः ॥

मूलम्

प्रतिज्ञा हेतुरेवेति द्वस्यैव प्रयोज्यता । व्युत्पादनाय मन्दानां दृष्टान्तादेरपीष्यते ॥