मूलम्
व्याप्याङ्गीकरणेऽनिष्टव्यापकस्य प्रसञ्जनम्। तर्कस्य चोभयविधविषयोपेत इष्यते॥
टीका
न्यायपरि.[ ]
मूलम्
प्रामाणिकपरित्यागोऽप्रमाणिकपरिग्रहः। एष चात्माश्रयान्योन्याश्रयचक्रकभेदतः॥
मूलम्
प्रतिबन्द्यनवस्था च तथाऽनिष्टप्रसञ्जनम्। इत्येवंभेदतश्चापि प्रोक्तः षड्धा च पञ्चधा॥
मूलम्
व्याप्तिः तर्काप्रतिहतिः अवसानं विपर्यये। अनिष्टाननुकूलत्वे इति तर्काङ्गपञ्चकम्॥
मूलम्
गौरवं लाघवं चेति तर्कः सार्वत्रिकावुभौ। गौरवं कल्पनाधिक्यं लाघवं त्वल्पकल्पना॥
मूलम्
तर्कशब्दं पुनः केचिदनुमाने प्रयुञ्जते। अनुमानविशेषोऽयमिति केचित्प्रचक्षते॥
मूलम्
सहकार्यमानस्य मानस्येति विदुः परे। तर्कः पृथक् मानमिति प्राहुर्जैनविपश्चितः॥