541 तद्विभागः

मूलम्

स उपाधुश्शाङ्कितश्च निश्चितश्चेति च द्विधा। योग्यं चायोग्यमिति च द्वयं चोभयथा मतम्॥

मूलम्

योग्यं योग्यानुपलब्ध्याऽयोग्यं तर्केण धूयते। भूयोदर्शनतश्शक्या दृश्योपाधेः निराक्रिया॥

मूलम्

अदृश्योपाधिशङ्का तु तर्कैरिति विदुः परे। उपाधित्वेन शङ्क्यस्य संबन्धो निरुपाधिकः॥

मूलम्

अन्यथोपाधिता नास्ति तद्वदन्यत्र गृह्यताम्। अप्रयोजकताहेतुरुपाधिरिति निर्णयः॥

मूलम्

यत्रानुकूलतर्कल्यासंभवस्सोऽप्रयोजकः।