539 तयोरभिप्रायः

मूलम्

उपाधिशब्दप्रवृत्तिनिमित्तमिदमुच्यते। अन्यत्र वस्तुनि स्वीयधर्मस्यारोपहेतुता॥

मूलम्

जपाद्युपाधिः स्फटिकारुण्यबुद्धेर्हि तादृशः। दर्पणो मुखमालिन्यबुद्धेश्चोपाधिरिष्यते॥

मूलम्

तथा स्वधर्मभूतायाः व्याप्ते बुद्धिं करोति या। मैत्रीसुतत्वे हेतौ सा शाकपाकजता मता॥

मूलम्

निरुपाधिकसंबन्धरूपव्याप्तिपरिग्रहात्। उपाधिशब्दाभिधेयापरित्यागेन दूषणे॥

मूलम्

तात्पर्यं समशब्दस्य प्रयोक्तृणां प्रतीयते। इतरेषां तु तात्पर्यमेतदध्यवसीयते॥

मूलम्

व्यापकस्य निवृत्त्यैव व्याप्यं हि विनिवर्तते। पक्षे साध्यस्य बाधेनोपाधेर्दूषणता मता॥

मूलम्

व्यर्थस्स्यात्समशब्दस्य प्रयोग इति निर्णयः।