मूलम्
साध्येन च समं व्याप्तः साधनाव्यापकश्च यः। स उपाधिरिति ह्याहोदयनो न्यायदेशिकः॥
टीका
स. स.[4-43]
मूलम्
सिपाधयिषिते शब्दानित्यत्वे हि विशेषणैः। घटत्वमश्रावणत्वं सकर्तृत्वं च वार्यते॥
मूलम्
वह्नौ साध्ये निवार्यन्ते तथैवैतैर्विशेषणैः। महानसत्वाद्रव्यात्वतत्सामग्र्य क्रमात्॥