मूलम्
शाक्यास्तु सविकल्पस्य प्रत्यक्षत्वं न मन्वते। एतेषामनुमानादेरुत्पत्तिर्नैव सिध्यति॥
मूलम्
सति भावो न कार्यत्वं किंतु सत्येव भाविता। तस्माच्चेदविनाभावः स्यादात्माश्रयणं ध्रुवम्॥
मूलम्
प्रमातुः शिंशपात्वं तु यस्य प्रत्यक्षगोचरः। परोक्षं तस्य वृक्षत्वमिति नातीव लौकिकम्॥
मूलम्
कार्यकारणभावोऽपि क्षणयोर्नैव संभवी। संभवन्नपि दुर्लक्षः तन्न हेतुरसावपि॥
मूलम्
सोपाधिका चेदशङ्का स्यादुपाधिविधूननात्। निर्धुतैव भवेत्तेनोपाधितत्त्वं विमृश्यताम्॥