मूलम्
पञ्चलक्षणकाल्लिङ्गात् गृहीतान्नियमे स्मृतेः। परोक्षे लिङ्गिनि ज्ञानं अनुमानं प्रचक्षते॥
टीका
न्या. म.[109]
मूलम्
व्याप्तिज्ञानं तु करणं फलं ह्यनुमितिर्मता। व्यापारस्तुं परामर्शः जन्योऽपि जनकोऽपि सः॥
मूलम्
असाधरणहेतुर्यः करणं तदिहेष्यते। व्यापारवत्त्वं तस्येष्टमित्याहुर्नव्यतार्किकाः॥
मूलम्
प्राचीनाः ज्ञायमानं तु लिङ्गं करणमूचिरे। अनागतादिलिङ्गेन न स्यादनुमितिस्तदा॥
मूलम्
इति नव्या दोषमाहुः समाधिस्तत्रचेरितः। अनागतादिलिङ्गेनागतादेर्भवेद्धि सा॥
मूलम्
व्याप्यत्वेन ज्ञायमानं हेतुत्वेनाभ्युपेयते। न धूलीपटलज्ञानादपि सा नोपपद्यते॥
मूलम्
व्याप्यस्य पक्षवृत्तित्वधीः परामर्श उच्यते। संबन्धग्रहवेलायां प्रथमं लिङ्गदर्शनम्॥
मूलम्
या पक्षधर्मता सैव द्वितीयं लिङ्गदर्शनम्। परामर्शस्तृतीयं स्यात् तेनानुमितसंभवः॥
मूलम्
व्याप्तिस्मृतेः पक्षधर्मज्ञानाच्चानुमितिर्भवेत्। न विशिष्टपरामर्शादिति प्राभाकरा विदुः॥
मूलम्
अख्यातिवादभङ्गायान्यथाख्यातिप्रसिद्धये। विशिष्टज्ञानजन्यत्वं साध्यते युक्तिवेदिभिः॥
टीका
सि. मु.[136 ता.]
मूलम्
भेदाग्रहो हि गुरुभिः भ्रमस्थानेऽभिषिच्यते। वह्निव्याप्यो धूम एष हृद इत्यादिसंविदोः॥
मूलम्
भेदाग्रहाच्चेदनुमा साऽन्यथाख्यातिरेव हि। विशिष्टबुद्धिः हेतुश्चेत् अयोगोलं च वह्निमत्॥
मूलम्
इत्याद्यनुमतेर्हेतुः धूमधीरन्यथैव सा। सेयं चोभयतःपाशा रज्जुरित्यस्ति धीः भ्रमः॥
मूलम्
सामान्यव्याप्तिसहितपक्षधर्मत्वधीबलात्। सामान्ये पक्षनिष्ठत्वं विशेषः किल साध्यते॥
मूलम्
साध्यस्य संशयः पक्षतेति प्राचीनलक्षणम्। साधनेच्छाशून्यसिद्धेरभावो नव्यलक्षणम्॥
मूलम्
धूमस्य पक्षता कैश्चित्प्राचीनैरुपवर्णिता। धूमोऽग्निमान् पाण्डुतादिविलक्षणगुणादिति॥
मूलम्
जीमूताः वृष्टिमन्तः स्युः औन्नत्यादिगुणात्तथा। कुमारिलोऽप्यन्ववादीदित्थं हि श्लोकवार्तिके॥
मूलम्
तस्माद्धर्मविशिष्टस्य धर्मिणः स्यात्प्रमेयता। सा देशस्याग्नियुक्तस्य, धूमस्यान्यैश्च कल्पिता॥
टीका
श्लोक.[359]