मूलम्
अथ तार्किकसिद्धान्तसंग्रहोऽप्यत्र लिख्यते । व्याप्यतीचारशङ्केत्थं प्रत्युक्ता कुसुमाञ्जलौ ॥
मूलम्
शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम् । व्याघातावधिराशङ्का तर्कश्शङ्कावधिर्मतः॥
मूलम्
अनुमानस्य बाधश्च नाध्यक्षात्किंतु तर्कतः। तत्र व्याप्त्याद्युपगमात् स्वव्याघातो दुरुत्तरः॥
मूलम्
व्याघातो यदि दोषो न को वा दोषः उदीर्यताम् । दोषादोषाविवेकश्चेत् प्रकृते दूषणं कथम् ॥
मूलम्
आशङ्का यदि निर्मूला सर्वत्र सुलभा हि सा। उत्प्रेक्षेत च यो मोहादज्ञातमपि बाधकम्॥
टीका
न्या.क.[167]
मूलम्
स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत्। इति पद्यं विश्रुतं हि यन्न्यायकणिकोदितम्॥
मूलम्
व्यभितारस्याग्रहोऽपि सहचारग्रहस्तथा। हेतुर्व्याप्तिग्रहे तर्कः क्वचिच्छङ्कानिवर्तकः॥
मूलम्
व्याघातो यदि शङ्का॥स्ति नचेच्छङ्का ततस्तराम्। व्याघातावधिराशङ्का तर्कश्शङ्काऽवधिः कुतः॥
मूलम्
इत्थं खण्डनकारेण कुसृष्टिर्येह कीर्तिता। सर्वार्थसिद्धौ शङ्कैषा प्रत्युक्ता सूरिभिर्यथा॥
मूलम्
व्याघातनिर्धुता शङ्का व्याघाते सा कथं भवेत्। शब्दवैचित्र्यमात्रेण श्लोकस्तु परिवर्त्यते॥
टीका
स. सि.[4-42]
मूलम्
भूयोदर्शनतस्तत्र भवेच्छङ्कानिराक्रिया। तर्कस्तन्मूलभूतस्योपाधेरेव निवर्तकः॥
मूलम्
निरुपाधिकसंबन्धो व्याप्तिरित्यत उच्यते। प्रायेण पक्ष एवैषोऽपूर्वरित्याऽप्यनूद्यते॥
मूलम्
न व्याप्तिर्नियमायोगादिति व्याप्तमिदं न वा। व्याप्तं चेत्स्वीकृता व्याप्तिः न व्याप्तं चेन्न दूषणम्॥
मूलम्
सर्वस्य व्यभिचारित्वे व्यभिचारो न सिद्ध्यति। एकस्याव्यभिचारित्वे न सर्वव्यभिचारिता॥
मूलम्
भूयोदर्शनतस्तावदुदेति मतिरीदृशी। नियतेऽयमनेनेति सकलप्राणिसाक्षिका॥
मूलम्
दोषज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणका। अत्र च प्रक्रियासारः विश्रुतोऽथापि लिख्यते॥