मूलम्
बौद्धाः प्रमेयद्वैविध्यात् प्रमाणं द्विविधं जगुः। नान्यः प्रमाणवेदस्य हेतुर्विषयभेदतः॥
मूलम्
विशेषोऽध्यक्षतो गम्यः सामान्यमनुमानतः। नोभयं नोभयग्राह्यं पिष्टं पिष्टं नहीष्यते॥
मूलम्
अतश्च नोपगच्छन्ति संप्लवं नीतिकोविदाः। एकस्मिन् विषयेऽनेकमानवृत्तिर्हि संप्लवः॥
मूलम्
चोदनालक्षणत्वं च शास्त्रयोनित्वमेव च। धर्मस्य ब्रह्मणश्चापि तस्मादेवोपपादितम्॥
मूलम्
समानविषयत्वे च जायते सदृशी मतिः । नचाध्यक्षधिया साम्यमेति शब्दानुमानधीः ॥
मूलम्
तेजोऽन्यदेव नक्षत्रशशाङ्कशकलादिषु । उद्घाटितजगत्कोशमन्यदेव रवेर्महः ॥
मूलम्
अन्यदेवेन्द्रियग्रह्यमन्यत् शब्दादिगोचरम् । शब्दात्प्रत्येति भिन्नाक्षः नतु प्रत्यक्षमीक्षते ॥
मूलम्
अन्यथैवाग्निसंसर्गाद्दाहं दग्धोऽनुमन्यते । अन्यथा दाहशब्देन दाहार्थः संप्रतीयते ॥
मूलम्
तस्मान्न संप्लवो नापि तृतीयं मानमिष्यते । प्रत्यक्षं च परोक्षं न मानं विषयभेदतः ॥
मूलम्
विकल्पविषये वृत्तिमाहुश्शब्दानुमानयोः । तेभ्यः संबन्धसिद्धौ च नानवस्था न संप्लवः ॥
टीका
न्या. म.[33]
मूलम्
यो वादिप्रतिवादिभ्यां निश्चितस्साधनं तु तत् । इत्युक्तवद्भिरप्येतैरसत्यासत्यधीर्मता ॥
टीका
न्या. र.[250]
मूलम्
अमुमानस्थेत्थमेभिः प्रामाण्यं परिनिश्चितम् । तच्च सांवृतिकं वा सांव्यावहारिकमेव वा ॥