532 तत्र प्रमाणम्

मूलम्

न्यायरत्नाकरकृतामनूक्तिरवधार्यताम्। अनुमानं वैवमानस्माकं परमार्थतः॥

टीका

न्या. र.[396]

मूलम्

अवस्तुभूतसामान्यविषयत्वात्तथाऽपि च। तत्परंपरया वस्तुप्रभावं मानमिष्यते॥

मूलम्

वह्निस्वलक्षमाद्धूमस्वलक्षणसमुद्भवः। ततश्च धूमप्रत्यक्षं ततो धूमाविकल्पना॥

मूलम्

अनुमानं ततश्चं स्यात्तद्वस्तुप्रभवं ततः। वह्नेस्तु प्रतिबद्धस्य प्रतिलम्भनमुच्यते॥

मूलम्

यद्बाष्यविषयाद्धूमविकल्पादुपजायते। वह्लिज्ञानं, तन्न परंपरया प्रतिबाध्यते॥

मूलम्

वह्निनेति,न मानं तत् आभास इति गीयते। प्रतिबन्धपदार्थोऽपि सम्यग्व्युत्पादितोऽमतः॥

टीका

न्या. र.[402]

मूलम्

व्यवहाराविसंवादामान्तेन्द्रियलिङ्गयोः। आप्तवादाविसंवादाच्छब्दः प्रामाण्यमृच्छति॥