530 सौगतसम्प्रदायः

मूलम्

अत्रानुमानप्रामाण्यवादिनां वाक्यसंग्रहः। आदौ सौगतसिद्धान्तवचनं त्ववधार्यताम्॥

मूलम्

अनुमानं ह्यर्थदृक्स्यात् या च लिङ्गात्त्रिलक्षणात्। इति दिङ्नागकथितं लक्षणं त्वित्यनूदितम्॥

टीका

न्या. र.[488]

मूलम्

कार्यकारणभावाद्वा स्वभावाद्वा नियामकात्। अविनाभावनियमोऽदर्शनान्न न दर्शनात्॥

टीका

न्या. ता.[105]

मूलम्

कार्यकारणभावो हि प्रत्यक्षेणावगम्यते। तदुत्पत्त्याख्यसंबन्धादविनाभावनिश्चयः॥

मूलम्

सहभावित्वमथवा क्रमभाविवत्वमेववा। कार्यकारणभावस्स्यान्नियमो नात्र गर्भितः॥

मूलम्

यथा धूमज्वलनयोः सुबीजाङ्कुरयोरपि। भवेद्यद्यपि चाशङ्का पुरुषस्य विपश्चितः॥

मूलम्

तदेवाशङ्क्यते लोके यस्य शङ्का न बाधते। स्वप्रवृत्त्यादिकं हेतुफलभावनिबन्धनम्॥

मूलम्

तादात्म्यनिश्चयेनापि क्वचित्तादृशनिष्चयः। वृक्षशिंशपयोरेषः सामानाधिकरण्यतः॥

मूलम्

यत्र चात्यन्तभेदोऽस्ति गवाश्वादौ न तत्र हि। सामानाधिकरण्यं,तत् युगपन्न प्रयुज्यते॥

मूलम्

अत्यन्तभेदसत्त्वेन घटकुम्भादिवस्तुषु। सह प्रयोगो नैवास्ति नात्र तादात्म्यमिष्यते॥

मूलम्

वृक्षोऽयं शिंशपेत्येवं प्रयोगो धीमतामपि। सामानाधिकरण्यं स्यात्तत्र तादात्म्यलक्षणम्॥

मूलम्

वृक्षत्वं यद्यतिपतेत् शिंशपा कुत्रचित्तदा। स्वात्मानमेव संजह्यात् विपक्षे बाधकं न्विदम्॥

मूलम्

तदुत्पत्तिः तदात्मत्वं अविनाभावबोधकम्। तत्कार्यं कारणं चात्मा स्वात्मानं साधयिष्यतः॥

मूलम्

अनुमानं न प्रमाणमित्येवं चेत्प्रयुज्यते। एकाकिनि प्रतिज्ञा हि प्रतिज्ञातं न साधयेत्॥

मूलम्

यदि च त्वाच्छिरस्कस्य प्रयोगः कस्यचित् तदा। स्वोक्तेरेव विरोधस्स्यात् माता वन्ध्या ममेतिवत्॥

मूलम्

प्रमाणं च तदाभास सजातीयत्वहेतुना। ब्रुवन् स्वभावानुमानं स्वीकरोति भवानपि॥

मूलम्

परकीयः संशयादिः ज्ञायते वचनाद्यदि। भवता स्वीकृतं तत्रानुमानं कार्यलिङ्गकम्॥

मूलम्

तथैवानुपलब्ध्याऽपि कंचिदर्थं निषेधता। लिङ्गं ह्यनुपलब्ध्याख्यमगत्या स्वीकृतं भवेत्॥

मूलम्

अत्रायं संग्रहश्लोकः तदुक्तः परिपठ्यते। प्रमाणान्तरसामान्यस्थितेरन्याधियां गतेः॥

टीका

स. सं.[2 द.]

मूलम्

प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित्। प्रतिषेधः स्वभावान्तर्नीतोऽभावे निरूप्यते॥

मूलम्

कृत्तिकोदयतः क्कापि रोहिण्यदयनिश्चयः। तत्कोष्ठगत्यनुविहितान्वयव्यतिरेकतः॥

टीका

न्या. कु.[1 स्त.]