मूलम्
द्विविधं ह्यनुमानं स्यादिति प्राहुस्सुशिक्षिताः। यथोत्पन्नप्रतीत्येवं तथोत्पाद्यप्रतीति च॥
टीका
न्या. म.[124]
मूलम्
तत्र धूमानुमानादेः प्रामाण्यमुपगम्यते। यतश्च साध्यं बुद्ध्यन्ते पुरुषाः कोमलाशयाः॥
मूलम्
यत्त्वामेश्वरसर्वज्ञपरलोकादिगोचरम्। अनुमानं न तस्येष्टं प्रामाण्यं तत्त्वदार्शिभिः॥
मूलम्
तस्माद्विदुर्वेदविदः धर्मब्रह्मादिगोचरम्। अनुमानं नोर्जितं स्यादिति शब्दं विधान्तरम्॥