मूलम्
व्यवहारोऽध्यक्षशक्त्या कृतार्थो ह्यानुमानिकः। इन्द्रियं धूमसंयुक्तं वह्नीं गमयति स्फुटम्॥
मूलम्
व्याप्तिश्च पक्षधर्मत्वं स्यातां तत्सहकारिणी। तथैवोपमितिश्शाब्दी सर्वा प्रत्यक्षमिष्यते॥
मूलम्
सहकारिसनाथं चेत् विचित्रं करणं भवेत्। अनागतादिलिङ्गांशे सयूथ्यकलहोऽस्ति हि॥
मूलम्
अत एवानुमानानामपश्यन्तः प्रमाणताम्। तद्विस्त्रम्भनिषेधार्थमिदाहुर्मनीषिणः॥
मूलम्
हस्तस्पर्शादिनाऽन्धेन विषमे पथि धावता। अनुमानप्रधानेन विनिपातो न दुर्लभः॥
मूलम्
यत्नेनामुमितोऽप्यर्थः कुशलैरनुमातृभिः। अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते॥