मूलम्
अनुमानप्रयोगोऽपि चादौ कर्तुं न शक्यते। मिथोविरुद्धाङ्गिकारप्रचुरौ वादिनाविह॥
टीका
स. सि.[4-58]
मूलम्
शब्दो द्रव्यं वेदविदां गुणो न्यायविदां मतः। पञ्चभूतगुणोऽन्येषां परेषां नाभसो गुणः॥
मूलम्
वृक्षादिशब्दाः स्फोटस्य निवर्त इति शाब्दिकाः। गुणद्रव्यविभागं च केचिन्नेच्छन्ति पण्डिताः॥
मूलम्
एवमेव हि सर्वं च वस्तु तैस्तैर्विकल्प्यते। कः पक्षः किंचवा साध्यं को हेतुः द्वयसम्मतः॥
मूलम्
सर्वत्रान्यतरसिद्धेरनुमानकथा वृथा। सामान्येन प्रयोगस्तु केवलं कण्ठशोषकृत्॥