मूलम्
धर्मे सिषाधयिषिते न हेतोः पक्षधर्मता। धूमस्य वह्न्यधर्मत्वात्, साध्यं धर्मी यदीष्यते॥
मूलम्
न हेतोरन्वयस्तत्र व्यतिरेकोऽपि बाधितः। द्वये तु साध्ये द्वयमप्यसिद्धं स्यादसंशयम्॥
मूलम्
विशिष्टस्य तु साध्यत्वे न प्राक्तद्धर्मताग्रहः। अतश्च पक्षधर्मत्वं केचिन्नेच्छन्ति सूरयः॥
मूलम्
ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्म्यभिधीयते। व्याप्तिकाले भवेद्धर्मः साध्यसिद्धौ पुनर्द्वयम्॥
टीका
प्र. त.[3-9]