मूलम्
भवन्नप्यविनाभावः परिच्छेत्तुं न शक्यते। जगत्त्र्यगताशेषपदार्थालोचनाद्विना॥
मूलम्
ये तु प्रत्यक्षतो विश्वं प्रपश्यन्ति महाजनाः। किं दिव्यचक्षुषामेषां अनुमानप्रयोजनम्॥
मूलम्
सामान्यद्वारकोऽप्यस्ति नाविनाभावनिश्चयः। वास्तवं तु न सामान्यं नाम किंचन विद्यते॥
मूलम्
बहुकृत्वोऽपि वस्त्वात्वा तथेति परिनिश्चितः। देशकालादिभेदेन दृश्यते पुनरन्यथा॥
मूलम्
भूयो दृष्टौ त धूमोऽग्निसहचारीति गम्यताम्। अनग्नौ तु स नास्तीति न भूयोदर्शनाद्गतिः॥
मूलम्
गत्वागत्वा च तान् देशान् यद्यर्थो नोपलभ्यते। ततोऽन्यकारणाभावादसन्नित्यवगम्यते॥
मूलम्
दर्शनादर्शनाभ्यां हि नियमग्रहणं यदि। तदप्यसदग्नौ हि धूमस्येष्टमदर्शनम्॥
मूलम्
अनग्निश्च कियान् प्रायो जगत् ज्वलनवर्जितम्। तत्र धूमस्य नास्तित्वं नैव पश्यन्त्ययोगिनः॥
मूलम्
तदेवं नियमाभावात् सति वा ज्ञप्त्यसंभवात्। अनुमानप्रमाणत्वदुराशा प्रतिमुच्यताम्॥
मूलम्
साध्यानुमितवेलायां नचास्ति नियमग्रहः। नियमग्रकाले च न साध्यमनुमीयते॥