मूलम्
अथानुमानप्रमाणविकल्पः महती कथा। तथाऽपि शक्यसंक्षेपा स्यादित्यत्र प्रयत्यते॥
मूलम्
विशेषेऽनुगमाभावः सामान्ये सिद्धसाधनम्। अनुमाभङ्गपङ्केऽस्मिन् निमग्ना वादिदन्तिनः॥
टीका
स. सि.[4-41]
मूलम्
विशेषेऽनुगमाभावात्सामान्ये सिद्धसाधनात्। तद्वतोऽनुपपन्नत्वादनुमानकथा कुतः॥
मूलम्
व्याप्तिरेवानुमानस्य जीवातुस्सा च सर्वथा। न संभवति संबन्धग्रहस्यानुपपत्तितः॥
मूलम्
अन्वयव्यतिरेकाभ्यां नाविनाभावनिश्चयः। त्रैकालिनां वस्तूनामानन्त्यादतिशङ्कनात्॥
मूलम्
अतएवेहानुमानशब्दः प्रायेण लौकिकैः। प्रयुज्यते संशयार्थः परोक्षं संशयात्मकम्॥
मूलम्
साहचर्ये च संबन्धे विस्त्रम्भ इति मुग्धता। शतकृत्वोऽपि तद्दृष्टौ व्यभिचारस्य संभवात्॥
मूलम्
देशकालदशाभेदविचित्रात्मसु वस्तूषु। अविनाभावनियमः न संभवति कुत्रचित्॥