मूलम्
ये त्वत्र प्रतितिबिम्बानामुत्पत्तिं प्राहुरार्हताः। तेषामभिप्राय एषः स्थूलदृष्टिपरिष्कृतः॥
मूलम्
स एव चेत्प्रतीयेत कस्मान्नोपरि दृश्यते। कूपादिषु कुतोधस्तात् प्रतिबिम्बेक्षणं भवेत्॥
मूलम्
प्राङ्मुखो दर्पणं पश्यन् स्याच्चेत्प्रत्यङ्मुखः। तत्र प्रति ब्रुवन्त्यन्ये तेषामेषा परिष्क्रिया।
मूलम्
देहपर्देशे पुंस्स्यात् चक्षुः ज्ञानस्य कारणम्। तेन देहाभिमुख्येन बुद्ध्यमानोऽवबुद्ध्यते॥
मूलम्
अप्सूर्यदर्शिना नित्यं चक्षुः द्वेधा प्रवर्तते। एकमूर्ध्वमधस्ताच्च तत्रोर्ध्वांशप्रकाशितम्॥
मूलम्
शरीरस्यानृजुस्थत्वात् नात्मा सूर्यं प्रपद्यते। ऊर्ध्ववृत्त्यर्पितं बिम्बं अवाग्वृत्त्या तु बुद्ध्यते॥
मूलम्
ऊर्ध्ववृत्तेस्तदेकत्वात् अवागिव च मन्यते। अधस्तादेव तेनार्कः सान्तरालः प्रतीयते॥
मूलम्
एवं प्राग्भूतया वृत्त्या प्रत्यग्वृत्तिसमर्षितम्। बुध्यमानो मुखं भ्रान्त्या प्रत्यगित्यवगच्छति॥
मूलम्
तेनानुभवसिद्धेन पथआ स्यादन्यथा गतिः। प्रतिबिम्बेन बिम्बस्यानुमानं क्वचिदभ्यधुः॥
टीका
श्लोक.[413]