519 विशुद्धाद्वैतपरिष्कारः

मूलम्

अथ चाद्वैतसिद्धान्ते प्रायस्सांख्यमतानुगे। प्रत्यक्षविषये किंचिद्विशेषंशोऽत्र सूच्यते॥

मूलम्

चैतन्यमेव प्रत्यक्षप्रमेति श्रुतिसम्मतम्। तदनाद्यपि हृद्वृत्तिविशिष्टं चादिमन्मतम्॥

मूलम्

संसर्गानवगाह्येतज्ज्ञानं स्यान्निर्विकल्पकम्। सोऽयं घटः तत्त्वमसीत्यादिवाक्यादपीष्यते॥

मूलम्

संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम्। उक्ताऽखण्डार्थता यद्वा तत्प्रातिपदिकर्थता॥

मूलम्

वृत्त्यवच्छिन्नचैतन्येऽर्थावच्छिन्नचिदेकता। ज्ञानस्याध्यक्षत्वमति नव्यानामिह निर्णयः॥

मूलम्

चैतन्याभिव्यञ्जकत्वं विषयस्यापरोक्षता। अन्तःकरणसंबन्धादस्वच्छे स्वच्छता भवेत्॥

मूलम्

प्रमात्रभिन्नत्वमिति परेषां तत्र निर्णयः। प्रमातृसत्तातिरिक्तसत्ताशून्यत्वलक्षणम्॥

मूलम्

अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम्। आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम्॥