मूलम्
अथात्र सांख्यप्रत्यक्षे विशेषः श्लोकवार्तिके। शब्दनित्यत्वाधिकृतावाक्षिप्तस्सोऽभिधीयते॥
टीका
न्या. र.[759]
मूलम्
विषयः प्रथमं स्वीयेन्दिये ह्यालोचनात्मकम्। स्वाकारं वृत्तिपर्यायं विकारं कुरुते स्वयम्॥
मूलम्
सा च वृत्तिस्समागत्य देशं तं विषयस्य च । प्रकाशं विषयाकारं आधत्ते महदात्मनि॥
मूलम्
बुद्धावध्यवसायाख्यमेतस्मिन्नाहिते सति। तस्यां बुद्धौ च चैतन्यं यदाऽभिव्यज्यते तदा॥
मूलम्
प्रत्यक्षमिति सिद्धान्तः स च नैवोपपद्यते। कथं विकाराधानं स्यात् असंबद्धेन चेन्द्रिये॥
मूलम्
प्राप्तिस्स्र्वगतत्वाच्चेत् तुल्या दूरगतेष्वपि। विक्रियाऽविक्रिये तत्र सर्वैस्स्यातां न भेदतः॥
मूलम्
तदौपनिषदाः प्रायस्सर्वै नैयायिकाध्वगाः। तत्रापि सन्निकर्षादि स्वसामग्रीनिबन्धनः॥
मूलम्
अदृष्टान्नियमाद्दृष्टनियमे लाघवं मतम्। मनोवैभवसिद्धान्ते विपरीतं बलाबलम्॥