517 प्रत्यक्षलक्षणम्

मूलम्

विकल्प्य कथितं तत्तु संग्रहादिह कथ्यते। कल्पनापोढमभ्रान्तं प्रत्यक्षमिति सौगताः॥

मूलम्

सत्संप्रयोगे पुरुषस्येति जैमिनिलक्षणम्। सन्निकृष्टार्थविज्ञानमिति वृत्तिकृतां मतम्॥

मूलम्

यत्त्विन्द्रियार्थसंबन्धोत्पन्नमव्यभिचारि च । तत्प्रत्यभमिति पोक्तमक्षपादेन लक्षणम्॥

मूलम्

साक्षात्प्रतीतिः प्रत्यक्षमिति प्राभाकरा विदुः। अर्थाकृत्या परिणतेन्द्रियवृत्त्यनुपातिनी॥

मूलम्

बुद्धिवृत्तिः चितिच्छायामापन्नाऽध्यक्षमिष्यते। पातञ्जलैः कापिलैश्च तथा तन्मार्गगामिभिः॥

मूलम्

प्रत्यक्षलक्षणं प्राहुऋ स्पष्टतां पुनरार्हताः। अस्पष्टमनुमानादि सद्विशेषाप्रकाशनात्॥

मूलम्

चार्वाकोऽशक्यकरमं मेने मानस्य लक्षणम्। तथैवं संख्यानियमं तत्रोदाहरणं त्विदम्॥

टीका

न्या. म.[64]

मूलम्

वक्राङ्गुलिः प्रविरलाङ्गुलिरेष करस्त्विति। जानाति मीलिताक्षोऽपि तमस्यपि पुमानयम्॥

मूलम्

निशि दीपशिखा दूराद्दृष्टा कुर्यात्प्रभामतीम्। अनुवादं दूरगते गन्धे बुद्धिः प्रजायते॥

मूलम्

शब्दादिविषया बुद्धिः वितिच्रा सर्वसम्मता। तस्मादनुगमोऽशक्यकरणः हृदयंगमः॥

मूलम्

सर्वेष्वपि च सिद्धान्तेष्विन्द्रियं क्रियते पुरः। ततस्त्वार्थानुगुण्येन परिष्कारो विजृम्भते॥